Shrihanumatsmaranam in Hindi - श्रीहनूमत्स्मरणम् हिंदी में

Shri Hanumatsmaranam

प्रातः स्मरामि हनुमन्तमनन्तवीर्यं

श्रीरामचन्द्रचरणाम्बुजचञ्चरीकम् ।

लङ्कापुरीदहननन्दितदेववृन्दं

सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥ १॥

माध्यं नमामि वृजिनार्णवतारणैक-

धीरं शरण्यमुदितानुपमप्रभावम् ।

सीताऽऽधिसिन्धुपरिशोषणकर्मदक्षं

वन्दारुकल्पतरुमव्ययमाञ्जनेयम् ॥ २॥

सायं भजामि शरणोपसृताखिलार्ति-

पुञ्जप्रणाशनविधौ प्रथितप्रतापम् ।

अक्षान्तकं सकलराक्षसवंशधूम-

केतुं प्रमोदितविदेहसुतं दयालुम् ॥ ३॥

Post a Comment

Previous Post Next Post