श्रीहनूमत्स्तोत्रम् ३
शृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वसुखावहम् ।यं
सर्वकामप्रदं नॄणां हनुमत्स्तोत्रमुत्तमम् ॥ १॥
तप्तहाटकसङ्काशं नानापुष्पविराजितम् ।यं
उद्यद्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥ २॥
मौञ्जीकौपीनकं हेममययज्ञोपवीतिनम् ।यं
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम् ॥ ३॥
मूर्तित्रयात्मकं वीरं महाशौर्यं महाहनुम् ।यं
हनूमन्तं वायुसूनुं नमामि ब्रह्मचारिणम् ॥ ४॥
त्रिवर्णाक्षरमन्त्रस्थं जपाकुसुमसन्निभम् ।यं
नानाभूषणसंयुक्तमाञ्जनेयं नमाम्यहम् ॥ ५॥
पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम् ।यं
पूजितं सर्वदेवैस्तु राक्षसारिं नमाम्यहम् ॥ ६॥
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम् ।यं
षडक्षरयुतं देवं नमामि ब्रह्मचारिणम् ॥ ७॥
सप्तवर्णमयं देवं हरीशं तं सुरार्चितम् ।यं
सुन्दरास्याब्जसंयुक्तं त्रिनेत्रं तं नमाम्यहम् ॥ ८॥
अष्टादशाधिपं देवं हेमवर्णं महातनुम् ।यं
नमामि जगतां वन्द्यं लङ्काप्रासाददाहनम् ॥ ९॥
अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् ।यं
जटाधरं चतुर्बाहुं नमामि कपिनायकम् ॥ १०॥
द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् ।यं
हेमवर्णलसत्कायं भजे सुग्रीवमन्त्रिणम् ॥ ११॥
मालामन्त्रात्मकं देवं त्रिवर्णं च चतुर्भुजम् ।यं
पाशाङ्कुशधरं देवं कपिवर्यं नमाम्यहम् ॥ १२॥
त्रयोदशाक्षरहितं सीतादुःखनिवारणम् ।यं
सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥ १३॥
हाहाकारमुखान्तनित्यदहनज्वालासमूहोज्ज्वलंयं
विद्वन्मण्डलजातरोषपरुषं श्रीरामदासं विभुम् ।यं
सञ्चूर्णीकृतधूम्रलोचनमहाह्यक्षादिरक्षोबलंयं
तं वन्दे रविधारणं सुरवरैर्वन्द्यं समीरात्मजम् ॥ १४॥
रघुपतिपदभक्तं किङ्किणीकोत्तमाङ्गंयं
मुकुलितकरपद्मं मोदयानं तरङ्गे ।यं
पुलकितविपुलाङ्गं पुण्यलीलानुषङ्गंयं
वनचरकुलनाथं वायुपुत्रं नतोऽस्मि ॥ १५॥
Post a Comment