Shri Hanumat Navaratnapadyamala in Hindi - श्रीहनूमन्नवरत्नपद्यमाला


श्रितजनपरिपालं रामकार्यानुकूलं

धृतशुभगुणजालं यातुतन्त्वार्तिमूलम् ।

स्मितमुखसुकपोलं पीतपाटीरचेलं

पतिनतिनुतिलोलं नौमि वातेशबालम् ॥ १॥


दिनकरसुतमित्रं पञ्चवक्त्रं त्रिनेत्रं

शिशुतनुकृतचित्रं रामकारुण्यपात्रम् ।

अशनिसदृशगात्रं सर्वकार्येषु जैत्रं

भवजलधिवहित्रं स्तौमि वायोः सुपुत्रम् ॥ २॥


मुखविजितशशाङ्कं चेतसा प्राप्तलङ्कं

गतनिशिचरशङ्कं क्षालितात्मीयपङ्कम् ।

नगकुसुमविटङ्कं त्यक्तशापाख्यश‍ृङ्गं

रिपुहृदयलटङ्कं नौमि रामध्वजाङ्कम् ॥ ३॥


दशरथसुतदूतं सौरसास्योद्गगीतं

हतशशिरिपुसूतं तार्क्ष्यवेगातिपातम् ।

मितसगरजखातं मार्गिताशेषकेतं

नयनपथगसीतं भावये वातजातम् ॥ ४॥


निगदितसुखिरामं सान्त्वितैक्ष्वाकुवामं

कृतविपिनविरामं सर्वरक्षोऽतिभीमम् ।

रिपुकुलकलिकामं रावणाख्याब्जसोमं

मतरिपुबलसीमं चिन्तये तं निकामम् ॥ ५॥


निहतनिखिलशूरः पुच्छवह्निप्रचारः

द्रुतगतपरतीरः कीर्तिताशेषसारः ।

समसितमधुधारो जातपम्पावतारो

नतरघुकुलवीरः पातु वायोः कुमारः ॥ ६॥


कृतरघुपतितोषः प्राप्तसीताङ्गभूषः

कथितचरितशेषः प्रोक्तसीतोक्तभाषः ।

मिलितसखिहनूषः सेतुजाताभिलाषः

कृतनिजपरिपोषः पातु कीनाशवेषः ॥ ७॥


क्षपितबलिविपक्षो मुष्टिपातार्तरक्षः

रविजनपरिमोक्षो लक्ष्मणोद्धारदक्षः ।

हृतमृतिपरपक्षो जातसीतापरोक्षो

विरमितरणदीक्षः पातु मां पिङ्गलाक्षः ॥ ८॥


सुखितसुहृदनीकः पुष्पयानप्रतीकः

शमितभरतशोको दृष्टरामाभिषेकः ।

स्मृतपतिसुखिसेको रामभक्तप्रवेकः

पवनसुकृतपाकः पातु मां वायुतोकः ॥ ९॥


अष्टाश्रीकृतनवरत्नपद्ममालां

भक्त्या श्रीहनुमदुरःस्थले निबद्धाम् ।

सङ्गृह्य प्रयतमना जपेत् सदा यः

सोऽभीष्टं हरिवरतो लभेत शीघ्रम् ॥ १०॥


इति श्रीहनूमन्नवरत्नपद्यमाला समाप्ता ।

Post a Comment

أحدث أقدم